|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.188. अध्यायः 188
Mahabharata - Drona Parva - Chapter Topics
पञ्चदशदिवसयुद्धारम्भः॥ 1 ॥ सङ्कुलयुद्धम्। नकुलेन दुर्योधनपराजयः॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-188-0x(4768)(53712)
ते तथैव महाराज दंशिता रणमूर्धनि।
सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे॥ 7-188-1(53713)
उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे।
प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत॥ 7-188-2(53714)
द्वन्द्वानि तत्र यान्यासन्संसक्तानि पुरोदयात्।
तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत॥ 7-188-3(53715)
रथैर्हया हयैर्नागाः पादातैश्चापि कुञ्जराः।
हयैर्हयाः समाजग्मुः पादाताश्च पदातिभिः॥ 7-188-4(53716)
रथा रथैरिभैर्नागास्तथैव भरतर्षभ।
संसक्ताश्च वियुक्ताश्च योधाः सन्न्यपतन्रणे॥ 7-188-5(53717)
ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा।
क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन्॥ 7-188-6(53718)
शङ्खबेरीमृदङ्गानां कुञ्जराणां च गर्जताम्।
विष्फारितविकृष्टानां कार्मुकाणां च कूजताम्॥ 7-188-7(53719)
शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ।
द्रवतां च पदातीनां शस्त्राणां पततामपि॥ 7-188-8(53720)
हयानां हेषतां चापि रथानां च निवर्तताम्।
क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत्॥ 7-188-9(53721)
विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महांस्तदा।
नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः॥ 7-188-10(53722)
भूमावश्रूयत महांस्तदाऽऽसीत्कृपणं महत्।
पततां पात्यमानानां पत्त्यश्वरथदन्तिनाम्॥ 7-188-11(53723)
तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः।
स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वान्परेषां परे परान्। 7-188-12(53724)
वीरबाहुविसृष्टाश्च योधेषु च गजेषु च।
राशयः प्रत्यदृश्यन्त वाससां नेजनेष्विव॥ 7-188-13(53725)
उद्यतप्रतिपिष्टानां खङ्गानां वीरबाहुभिः।
स एव शब्दस्तद्रूपो वाससां निज्यतामिव॥ 7-188-14(53726)
अर्धासिभिस्तथा खङ्गैस्तोमरैः सपरश्वथैः।
निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम्॥ 7-188-15(53727)
गजाश्वकायप्रभवां नरदेहप्रवाहिनीम्।
शस्त्रमत्स्यसुसम्पूर्णां मांसशोणितकर्दमाम्॥ 7-188-16(53728)
आर्तनादस्वनवतीं पताकाशस्त्रफेनिलाम्।
नदीं प्रावर्तयन्वीराः परलोकौघगामिनीम्॥ 7-188-17(53729)
शरशक्त्यर्दिता क्लान्ता रात्रिमूढात्पचेतसः।
विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः॥ 7-188-18(53730)
संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः।
युद्धोपकरणैश्चान्यैस्तत्रतत्र चकाशिरे॥ 7-188-19(53731)
क्रव्यादसङ्घैराकीर्णं मृतैरर्धमृतैरपि।
नासीद्रथपथस्तत्र सर्वमायोधनं प्रति॥ 7-188-20(53732)
मञ्जत्सु चक्रेषु रथान्सत्वमास्थाय वाजिनः।
कथञ्चिदवहन्श्रान्ता वेपमानाः शरार्दिताः।
कुलसत्वबलोपेता वाजिनो वारणोपमाः॥ 7-188-21(53733)
विह्वलं तूर्णमुद्धान्तं सभयं भारतातुरम्।
बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ॥ 7-188-22(53734)
तावेवास्तां निलयनं तावार्तायनमेव च।
तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम्॥ 7-188-23(53735)
आविग्नमभवत्सर्वं कौरवाणां महद्बलम्।
पाञ्चालानां च संसक्तं न प्राज्ञायत किञ्चन॥ 7-188-24(53736)
अन्तकाक्रीडसदृशं भीरूणां भयवर्धनम्।
पृथिव्यां राजवंश्यानामुत्थिते महति क्षये॥ 7-188-25(53737)
न तत्र कर्णं द्रोणं वा नार्जुनं न युधिष्ठिरम्।
न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम्॥ 7-188-26(53738)
न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ।
न कृपं मद्रराजं च कृतवर्माणमेव च॥ 7-188-27(53739)
न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा।
पश्याम राजन्संसक्तान्सैन्येन रजसा धृतान्॥ 7-188-28(53740)
सम्भ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते।
त्रियामामिव संप्राप्ताममन्यन्त निशाचराः॥ 7-188-29(53741)
न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः।
न दिशो द्यौर्न चोर्वी च न समं विषमं तथा॥ 7-188-30(53742)
हस्तसंस्पर्शमापन्नान्परानप्यथवा स्वकान्।
न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः॥ 7-188-31(53743)
उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च।
प्राशाम्यत रजो भौमं शीघ्रत्वादनिलस्य च॥ 7-188-32(53744)
तत्र नागा हया योधा रथिनोऽथ पदातयः।
पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः॥ 7-188-33(53745)
ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा।
पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः॥ 7-188-34(53746)
दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत।
वृकोदरेण राधेयो भारद्वाजेन चार्जुनः॥ 7-188-35(53747)
तद्धोरं महदाश्चर्यं युद्धं दैवासुरोपमम्।
रथर्षभाणामुग्राणां सन्निपातममानुषम्॥ 7-188-36(53748)
रथमार्गैर्विचित्रैस्तैर्विचित्ररथसङ्कुलम्।
अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम्॥ 7-188-37(53749)
यतमानाः पराक्रान्ताः परस्परजिगीषवः।
जीमूता इव घर्मान्ते शरवर्षैरवाकिरन्॥ 7-188-38(53750)
ते रथान्सूर्यसङ्काशानास्थिताः पुरुषर्षभाः।
अशोभन्त यथा मेघाः शारदाश्चलविद्युतः॥ 7-188-39(53751)
योधास्ते तु महाराज क्रोधामर्षसमन्विताः।
स्पर्धिनश्च महेष्वासाः कृतयत्ना धनुर्धराः।
अभ्यगच्छंस्तथाऽन्योन्यं मत्ता गजवृषा इव॥ 7-188-40(53752)
न नूनं देहभेदोऽस्ति काले राजन्ननागते।
यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः॥ 7-188-41(53753)
बाहुभिश्चपरणैश्चिन्नैः शिरोभिश्च सकुण्डलैः।
कार्मुकैर्विशिखैः प्रासैः खङ्गैः परशुपट्टसैः॥ 7-188-42(53754)
नालीकैः क्षुद्रनाराचैर्नखरैः शक्तितोमरैः।
अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः॥ 7-188-43(53755)
विचित्रैर्विविधाकारैः शरीरावरणैरपि।
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः॥ 7-188-44(53756)
शून्यैश्चैव नगाकारैर्हतयोधध्वजै रथैः।
अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः॥ 7-188-45(53757)
वातायमानैरसकृद्धतवीरैरलंकृतैः।
व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः॥ 7-188-46(53758)
छत्रैराभरणैर्वस्त्रैर्माल्यैश्च ससुगन्धिभिः।
हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः॥ 7-188-47(53759)
उरस्थैर्मणिभिर्निष्कैश्चूडामणिभिरेव च।
आसीदायोधनं तत्र नभस्तारागणैरिव॥ 7-188-48(53760)
ततो दुर्योधनस्यासीन्नकुलेन समागमः।
अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च॥ 7-188-49(53761)
अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम्।
किरञ्छरशतैर्हृष्टस्तत्र नादो महानभूत्॥ 7-188-50(53762)
अपसव्यं कृतं सङ्ख्ये भ्रातृव्येनात्यमर्षिणा।
नामृष्यत तमप्याजौ प्रतिचक्रे परन्तपः।
पुत्रस्तव महाराज राजा दुर्योधनो द्रुतम्॥ 7-188-51(53763)
ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम्।
न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित्॥ 7-188-52(53764)
स सर्वतो निवार्यैनं शरजालेन पीडयन्।
विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन्॥ 7-188-53(53765)
तिष्ठतिष्ठेति नकुलो बभाषे तनयं तव।
संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितं च तत्॥ ॥ 7-188-54(53766)
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि चतुर्दशरात्रियुद्धे अष्टाशीत्यधिकशततमोऽध्यायः॥ 188 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-188-12 स्वे कौरवाः स्वान् स्वभृत्यान्परे पाण्डवाः स्वान् स्वभृत्यान्। स्वे इत्यनुवर्तते। परेषां पाण्डवानां स्वान् स्वे कौरवाः परेषां पाण्डवानां परान् कौरवान् परे पाण्डवा जघ्नुरित्यन्वयः। परेषामित्युभयत्र सम्बध्यते। स्वपरविभागो वक्तुः सञ्जयस्यानुरोधात्॥ 5-188-13 निज्यन्ते प्रक्षाल्यन्ते वासांसि येषु ते प्रदेशा नेजनानि तेषु यथा वाससां राशयो भवन्त्येवमुद्यतानां प्रतिकूलं पिष्टानां च खङ्गानां राशयः प्रत्यदृश्यन्त। निज्यतां क्षालनैः उद्यम्योद्यम्य शिलायां स्फाल्यमानानाम्। स्लोकद्वयम्॥ 5-188-14 निज्यन्ते प्रक्षाल्यन्ते वासांसि येषु ते प्रदेशा नेजनानि तेषु यथा वाससां राशयो भवन्त्येवमुद्यतानां प्रतिकूलं पिष्टानां च खङ्गानां राशयः प्रत्यदृश्यन्त। निज्यतां क्षालनैः उद्यम्योद्यम्य शिलायां स्फाल्यमानानाम्। स्लोकद्वयम्॥ 5-188-15 अर्धासिभिरेकधारैः॥ 5-188-23 निलयनमाश्रयः। आर्तायनं आर्तानां भयवारणं स्वीयानाम्। शत्रूणां तु तावेव मृत्युकरावित्यर्थः॥ 5-188-34 चतुरश्चत्वारः॥ 5-188-35 भ्रात्रा दुःशासनेन॥ 5-188-188 अष्टाशीत्यधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|